स्वात्म-स्थितः सर्व-गतः समस्त-व्यापार-वेदी विनिवृत्त-संगः|
प्रवृद्व - कलोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः |1|
परैचिन्त्यं युग-भारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः|
स्तुत्योऽद्यमेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः|2|
तत्याज शक्रः शकनाभिमांन नाहं त्यजामि स्तवनानुबन्धम्|
स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरुपयामि|3|
त्वं विश्र्वद्दश्र्वा सकलैरद्दश्यो विद्वानशेषं निखिलैरवेद्यः|
वक्तुं कियान्कीद्दश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु|4|
व्यापीडितं बालमिवात्म-दोषैरुल्लाघतां लोकमवापिपस्त्वम्|
हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि बाल-वैद्यः|5|
दाता न हर्ता दिवसं विवस्वानद्यश्र्व इत्यच्युत दर्शिताशः|
संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय |6|
उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्र्च दुःखम्|
सदावदात-द्युतिरेकरुपस्तयोस्त्वमादर्श इवावभासि |7|
अगाधताब्धेः स यतः पयोधिर्मेरोश्र्च तुंगा प्रक्रतिः स यत्र|
द्यावाप्रथिव्योः प्रथुता तथैव व्याप त्वदीया भुवनान्तराणि|8|
तवानवस्था परमार्थ-तत्त्वं त्वया न गीतः पुनरागमश्च|
द्दष्टं विहाय त्वमद्दष्टमैषीर्विरुद्ध-व्रत्तोऽपि समञ्जसस्त्वम्|9|
स्मरः सुदग्धो भवतैव तस्मिन्नुद् भूलितात्मा यदि नाम शम्भुः|
अशेत व्रन्दोपहतोऽपि विष्णुः किं ग्रह्यते येन भवानजागः |10|
स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्यैर्वनते गुणित्वम्|
स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य|11|
कर्मस्थितिं जन्तुरनेक-भूमिं नयत्यमुं सा च परस्परस्य|
त्वंनेतृ-भावंहि तयोर्भवाब्धौ जिनेन्द्र नौ-नाविकयोरिवाख्यः|12|
सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति|
तैलाय वालाः सिकता-समूहं निपीडयन्ति स्फुटमत्वदीयाः|13|
विषाप हारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च|
भ्राम्यन्त्यहोन त्वमिति स्मरन्ति पर्याय-नामानि तवैव तानि|14|
चित्ते न किञ्चित्कृतवानसि त्वं देवः कृतश्र्चेतसि येन सर्वम्|
हस्ते क्रतं तेन जगद्विचित्र सुखेन जीवत्यपि चित्तबाह्यः|15|
त्रिकाल-तत्त्वंत्वमवैस्त्रिलोकी-स्वामीति संख्या-नियतेरमीषाम्|
बोधाधिपत्यंप्रति नाभविष्यस्तेऽन्येऽपिचेद् व्याप्स्यदमूनपीदम्|16|
नाकस्य पत्युः परिकर्म रम्यं नागम्यरुपस्य तवोपकारि|
तस्यैव हेतुः स्वसुखस्य भानोरुद्विभ्रतच्छत्रमिवादरेण|17|
क्वोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छा-प्रतिकूल-वादः|
क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते |18|
तुगांत्फलं यत्तदकिञ्चनाच्च प्राप्यं सम्रद्धान्न धनेश्र्वरादेः|
निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः|19|
त्रैलोक्य-सेवा-नियमाय दण्डं दध्रे यदिन्द्रो विनयेन तस्य|
तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्म-योगाद्यदि वा तवास्तु|20|
श्रिया परंपश्यति साधु निःस्वः श्रीमान्न कश्र्चित्कृपणंत्वदन्यः|
यथा प्रकाश-स्थितमन्धकारस्थायीक्षेऽसौ न तथा तमः स्थम्|21|
स्ववृद्धिनिःश्र्वास-निमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः|
किं चाखिल-क्षेय-विवर्ति-बोधस्वरुपमध्यक्षमवैति लोकः|22|
तस्यात्मजस्तस्य पितेर्तिदेव त्वां येऽवगायन्ति कुलंप्रकाश्य|
तेऽद्यपि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति|23|
दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान् सलाभः|
मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः|24|
मार्गस्त्वयैको दद्दशे विमुक्तेश्र्चतुर्गतीनां गहनं परेण|
सर्वं मया द्दष्टंमिति स्मयेन त्वं मा कदाचिभ्द्रुजमालुलोक|25|
स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विघातः|
संसार-भोगस्य वियोग-भावो विपक्ष-पूर्वाभ्युदयास्त्वदन्ये|26|
अजानतस्त्वां नमतः फलं यत्तज्जानतोऽन्यं न तु देवतेति|
हरिन्मणिं काचाधिया दधानस्तं तस्य बुद्धयां वहतो न रिक्त|27|
प्रशस्त-वाचश्र्चतुराः कषायैर्दग्धस्य देव-व्यवहारमाहुः|
गतस्य दीपस्य हि नन्दितत्वं द्दष्टं कपालस्य च मगंलत्वम्|28|
नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः|
निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण|29|
न क्कापि वाञ्छा ववृते च वाक्ते काले क्कचित्कोऽपि तथा नियोगः|
न पूरयाभ्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति|30|
गुणा गभीराः परमाः प्रसन्ना बहु-प्रकारा बहवस्तवेति|
द्दष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति|31|
स्तुत्या परंनाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि|
स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् |32|
ततस्त्रिलोकी-नगराधिदेवं नित्यं परं ज्योतिरनन्त-शक्तिम्|
अपुण्य-पापं पर-पुण्य-हेतुं नमाभ्यहं वन्द्यमवन्दितारम्|33|
अशब्दमस्पर्शमरुप-गन्धं त्वां नीरसं तद्विषयावबोधम्|
सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि|34|
अगाध मन्यैर्मनसाप्यलग्घयं निष्किञ्चनं प्रार्थितमर्थवभ्दिः|
विश्र्वस्य पारं तमद्दष्टपारं पतिं जनानां शरणं ब्रजामि |35|
त्रैलोक्य-दीक्षा-गुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत्|
प्राग्गण्डशैलः पुनरद्रि-कल्पः पश्र्चान्न मेरुः कुल पर्वतोऽभूत्|36|
स्वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम्|
न लाघवं गौरवमेकरुपं वन्दे विभुं कालकलामतीतम् |37|
इति स्तुतिं देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि|
छायातरुंसंश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभ|38|
अस्थास्ति दित्सा यदि बोपरोधस्त्वय्येव सक्तां दिश भक्ति-बुद्धिम्|
करिष्यते देव तथा कृपा मे को वात्मपोष्ये सुमुखो न सूरिः |39|
वितरति विहिता यथाकथञ्चिज्जिन विनताय मनीषितानि भक्तिः|
त्वयि नुति-विषया पुनर्विशेषाद्दिशति सुखानि यशो 'धनं जयं' च|40|